Pages

Wednesday, 8 January 2025

पतंजलि योगदर्शन मूल सूत्राणि

                               ॥ॐ॥
                  अथ पातञ्जल योगदर्शनम्
                           (मूल सूत्राणि)

  ॥卐॥ ꧁◕अथ प्रथमः समाधिपादः◕꧂॥卐॥ 
 
१. अथ योगानुशासनम् । 

२. योगश्चित्तवृत्तिनिरोधः । 

३. तदा दष्टुः स्वरूपेऽवस्थानम् । 

४. वृत्तिसारूप्यमितरत्र । 

५. वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । 

६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः । 

७. प्रत्यक्षानुमानागमाः प्रमाणानि । 

८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । 

९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । 

१०. अभावप्रत्ययालम्बनावृत्तिर्निद्रा । 

११. अनुभूतविषयासम्प्रमोषः स्मृतिः । 

१२. अभ्यासवैराग्याभ्यां तन्निरोधः । 

१३. तत्र स्थितौ यत्नोऽभ्यासः ।

१४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । 

१५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । 

१६. तत्परं पुरु षख्यातेर्गुणवैतृष्ण्यम् । 

१७. वितर्कविचारानन्दास्मितास्यानुगमात् सम्प्रज्ञातः । 

१८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः । 

१९. भवप्रत्ययो विदेहप्रकृतिलयानाम् । 

२०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् । 

• २१. तीव्रसंवेगानामासन्नः । 

• २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः । 

२३. ईश्वरप्रणिधानाद्वा । 

२४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः । 

२५. तत्र निरतिशयं सर्वज्ञबीजम् । 

२६. स एष पूर्वेषामपि गुरुः कालेना- नवच्छेदात् । 

२७. तस्य वाचकः प्रणवः । 

२८. तज्जपस्तदर्थभावनम्

२९. ततः प्रत्यक्चेतनाधिगमो ऽप्यन्तरायाभावश्च ।
       व्याधिस्त्यानसंशयप्रमादालस्याविरति- 

३०. भ्रान्तिदर्शनालब्धभूमिकत्वानव- स्थितत्वानि
        चित्तविक्षेपास्ते ऽन्तरायाः ।
३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः 

३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः । 

३३. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
      भावनातश्चित्तप्रसादनम् । 

३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । विषयवती वा प्रवृत्तिस्त्पन्ना मनसः 

३५. स्थितिनिबन्धनी । 

३६. विशोका वा ज्योतिष्मती । 

३७. वीतरागविषयं वा चित्तम् । 

३८. स्वप्ननिद्राज्ञानालम्बनं वा । 

३९. यथाभिमतध्यानाद्वा । 

४०. परमाणुपरममहत्त्वान्तोऽस्य वशीकारः 

४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहण- ग्राह्येषु तत्स्थतदञ्जनता समापत्तिः । 

४२. तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । 

४३. स्मृतिपरिशुद्धौ स्वस्यशून्येवार्थमात्र- निर्भासा निर्वितर्का । 

४४. एतयैव सविचारा निर्विचारा च- 

सूक्ष्मविषया व्याख्याता । 

४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् । 

४६. ता एव सबीजः समाधिः । 

४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः । 

४८. ऋतम्भरा तत्र प्रज्ञा । 

४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् । 

५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी । 

५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः । 

                     इति प्रथमः समाधिपादः
      ❀━❀━━❀❀꧁꧂❀❀━━❀━❀


  ॥卐॥ ꧁◕अथ द्वितीयः साधनपादः◕꧂॥卐॥  

१. तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः । 

२. समाधिभावनार्थः क्लेशतनूकरणार्थश्च । 

३. अविद्याऽस्मिता रागद्वेषाभिनिवेशाः पञ्च क्लेशाः । 

४. अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनु- विच्छिन्नोदाराणाम् । 

५. अनित्याशुचिदुःखानात्मसु नित्यशुचि- सुखात्मख्यातिरविद्या । 

६. दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । 

७. सुखानुशयी रागः । 

८. दुःखानुशयी द्वेषः । 

९. स्वरसवाही विदुषोऽपि तथारूढो ऽभिनिवेशः । 

१०. ते प्रतिप्रसवहेयाः सूक्ष्माः । 

११. ध्यानहेयास्तवृत्तयः । 

१२. क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । 

१३. सति मूले तद्विपाको जात्यायुर्भागाः । 

१४. ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् । 

१५. परिणामतापसंस्कारदुःखैःर्गुणवृत्ति- विरोधाच्च दुःखमेव सर्वं विवेकिनः । 

१६. हेयं दुःखमनागतम् । 

१७. द्रष्टृदृश्ययोः संयोगो हेयहेतुः । 

१८. प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् । 

१९. विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । 

२०. द्रष्टय दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । 

२१. तदर्थ एव दृश्यस्याऽऽत्मा । 

२२. कृतार्थम्प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।

२३. स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः । 

२४. तस्य हेतुरविद्या । 

२५. तदभावात् संयोगाभावो हानं तदृशेः कैवल्यम् । 

२६. विवेकख्यातिरविप्लवा हानोपायः । 

२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । 

२८. योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । 

२१. यमनियमासनप्राणायामप्रत्याहार- धारणाध्यानसमाधयो ऽष्टावङ्गानि । 

३०. अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।

३१. जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । 

३२. शौचसन्तोषतपःस्वाध्यायेश्वर- प्रणिधानानि नियमाः । 

३३. वितर्कबाधने प्रतिपक्षभावनम् । 

३४. वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा
       दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । 

३५. अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः । 

३६. सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । 

३७. अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । 

३८. ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । 

३९. अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । 

४०. शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः । 

४१. सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रिय-जयात्मदर्शनयोग्यत्वानि च । 

४२. सन्तोषादनुत्तमसुखलाभः । 

४३. कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । 

४४. स्वाध्यायादिष्टदेवतासम्प्रयोगः । 

४५. समाधिसिद्धिरीश्वरप्रणिधानात् । 

४६. स्थिरसुखमासनम् । 

४७. प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । 

४८. ततो द्वन्द्वानभिघातः । 

४९. तस्मिन् सति श्वासप्रश्वासयोर्गति- विच्छेदः प्राणायामः। 

५०. बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकाल- संख्याभिः परिदृष्टो दीर्घसूक्ष्मः । 

५१. बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः । 

५२. ततः क्षीयते प्रकाशावरणम् । 

५३. धारणासु च योग्यता मनसः । 

५४. स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः । 

५५. ततः परमा वश्यतेन्द्रियाणाम् । 

                   इति द्वितीयः साधनपादः
    ❀━❀━━❀❀꧁꧂❀❀━━❀━❀


  ॥卐॥ ꧁◕अथ तृतीयो विभूतिपाद:◕꧂॥卐॥   

१. देशबन्धश्चित्तस्य धारणा । 

२. तत्र प्रत्ययैकतानता ध्यानम् । 

३. तदेवार्थमात्रनिर्भासे स्वरूपशून्यमिव समाधिः । 

४. त्रयमेकत्र संयमः । 

५. तज्जयात् प्रज्ञालोकः । 

६. तस्य भूमिषु विनियोगः । 

७. त्रयमन्तरङ्गं पूर्वेभ्यः । 

८. तदपि बहिरङ्गं निर्बीजस्य । 

९. व्युत्थाननिरोधसंस्कारयोरभिभव- प्रादुर्भावौ
      निरोधक्षणचित्तान्वयो निरोधपरिणामः । 

१०. तस्य प्रशान्तवाहिता संस्कारात् । 

११. सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । 

१२. ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता
       परिणामः । 

१३. एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था- परिणामा
       व्याख्याताः । 

१४. शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी । 

१५. क्रमान्यत्वं परिणामान्यत्वे हेतुः । 

१६. परिणामत्रयसंयमादतीतानागतज्ञानम् । 

१७. शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्कर-
       स्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् । 

१८. संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् । 

१९. प्रत्ययस्य परचित्तज्ञानम् । 

२०. न. च तत्सालम्बनं तस्याविषयीभूतत्वात् । ** 

२१. कायरूपसंयमात् तद्‌ग्राह्यशक्तिस्तम्भे
       चक्षुष्प्रकाशाऽसम्प्रयोगेऽन्तर्धानम् । 

२२. सोपक्रमं निरुपक्रमं च कर्म 
       तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा । 

२३. मैत्र्यादिषु बलानि । 

२४. बलेषु हस्तिबलादीनि । 

२५. प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । 

२६. भुवनज्ञानं सूर्ये संयमात् । 

२७. चन्द्रे ताराव्यूहज्ञानम् । 

२८. ध्रुवे तद्गतिज्ञानम् । 

२९. नाभिचक्रे कायव्यूहज्ञानम् । 

३०. कण्ठकूपे क्षुत्पिपासानिवृत्तिः ।

३१. कूर्मनाड्यां स्थैर्यम् । 

३२. मूर्धज्योतिषि सिद्धदर्शनम् । 

३३. प्रातिभाद् वा सर्वम् । 

३४. हृदये चित्तसंवित् । 

३५. सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः
       परार्थत्वात् स्वार्थसंयमात्पुरुषज्ञानम् । 

३६. ततः प्रातिभश्रावणवेदनादर्शास्वाद- वार्ता जायन्ते । 

३७. ते समाधावुपसर्गा व्युत्थाने सिद्धयः । 

३८. बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य
       परशरीरावेशः । 

३९. उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च । 

४०. समानजयाज्ज्वलनम् । 

४९. श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् । 

४२. कायाकाशयोः सम्बन्धसंयमाल्लघुतूल-
       समापत्तेश्चाकाशगमनम् । 

४३. बहिरकल्पितावृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः । 

४४. स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद भूतजयः। 

४५. ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च । 

४६. रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् । 

४७. ग्रहणस्वरूपास्मितान्वयार्थवत्त्व- संयमाद् इन्द्रियजयः । 

४८. ततो मनोजवित्वं विकरणभावः प्रधानजयश्च । 

४९. सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
       सर्वज्ञातृत्वं च । 

५०. तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । 

५१. स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । 

५२. क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । 

५३. जातिलक्षणदेशैरन्यतानवच्छेदात् - तुल्ययोस्ततः
       प्रतिपत्तिः । 

५४. तारकं सर्वविषयं सर्वथा विषयमक्रमं चेति विवेकजं
       ज्ञानम् । 

५५. सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ।
नोट **   = ५४ ( २० वा सूत्र काटा हुआ है इसलिए ( ५५-१ =५४ सूत्र ही हैं संभवतः)

                  इति तृतीयोः विभूति-पादः।
    ❀━❀━━❀❀꧁꧂❀❀━━❀━❀


॥卐॥ ꧁◕अथ चतुर्थ: कैवल्यपाद:◕꧂॥卐॥   

१. जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः । 

२. जात्यन्तरपरिणामः प्रकृत्यापूरात् । 

३. निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । 

४. निर्माणचित्तान्यस्मितामात्रात् । 

५. प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । 

६. तत्र ध्यानजमनाशयम् । 

७. कर्माशुक्लाकृष्णं - योगिनस्त्रिविधमितरेषाम् । 

८. ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर् वासनानाम् । 

९. जातिदेशकालव्यवहितानामप्यानन्तर्यं-
     स्मृतिसंस्कारयोरेकरूपत्वात् । 

१०. तासामनादित्वं चाशिषो नित्यत्वात् । 

११. हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदद्भावः । 

१२. अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् । 

१३. ते व्यक्तसूक्ष्मा गुणात्मानः । 

१४. परिणामैकत्वाद्वस्तुतत्त्वम् । 

१५. वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः । 

१६. न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् । 

१७. तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताऽज्ञातम् । 

१८. सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् । 

१९. न तत्स्वाभासं दृश्यत्वात् । 

२०. एकसमये चोभयानवधारणम् । 

२१. चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च । 

२२. चितेरप्रतिस‌ङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् । 

२३. द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । 

२४. तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् । 

२५. विशेषदर्शिन आत्मभावभावना- विनिवृत्तिः । 

२६. तदा विवेकनिम्नं कैवल्यप्राग्भारं- चित्तम् । 

२७. प्रत्ययान्तराणि संस्कारेभ्यः । 

२८. हानमेषां क्लेशवदुक्तम् । 

२९. प्रस‌ङ्ख्याने ऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः
       समाधिः । 

३०. ततः क्लेशकर्मनिवृत्तिः 

३१. तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् । 

३२. ततः कृतार्थानां परिणाम क्रमसमाप्तिर्गुणानाम् । 

३३. क्षणप्रतियोगी परिणामापरान्तनिग्रह्यः क्रमः । 

३४. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
       स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ।

                 इति चतुर्थः कैवल्यपादः । 
    ❀━❀━━❀❀꧁꧂❀❀━━❀━❀

              समाप्तञ्चेदं श्रीमद्भगवन्महर्षि-    
         पतञ्जलिमुनिप्रणीतं योगदर्शनशास्त्रम्। 
      शुक्रवार मार्गशीर्ष शुक्ल १३ विक्रम संवत २०८१ 
                        13 दिसंबर 2024  
                         वयं राष्ट्रे जागृयाम

No comments:

Post a Comment