Pages

Showing posts with label वाराही स्तोत्र. Show all posts
Showing posts with label वाराही स्तोत्र. Show all posts

Tuesday, 7 April 2026

श्रीवश्यवाराहघस्तोत्र !!

श्रीवश्यवाराहीस्तोत्र!!
अश्वारूढं रक्तवर्णे स्मितसौम्य मुखाम्बुजे।
राज्यस्त्री सर्वजन्तूनां वशीकरण नायिके।।
वशीकरण कार्यार्थं पुरादेवेन निर्मितम्।
तस्माद्वश्य वाराही सर्वान्में वशमानय।।

यथा राजामहाज्ञानं वस्त्रं धान्यं महावसु।
मह्यं ददाति वाराहि यथात्वं वशमानय।।
अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च।
यथा मामेव स्मरति तथा वश्यं वशं कुरु ।।

चामरं दोलिकां छत्रं राजचिह्नानि यच्छति।
अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु।।
मन्मथस्मरणाद्रामा रतिर्यातु मयासह ।
स्त्री रत्नेषु महत्प्रेम तथा जनय कामदे।।

मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः।
अनुगच्छति मामेव त्वत्प्रसादाद् दयां कुरु।।
वशीकरण कार्यार्थ यत्र यत्र प्रयुञ्जति ।
सम्मोहनार्थ वर्द्धित्वात् तत्कार्य तत्र कर्षय।।

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते ।
तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ।।
वशीकरण वाणास्त्रं भक्त्यापत्ति निवारणम्।
तस्मात् वश्यं वाराही जगत्सर्वं वशं कुरु ।।

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः।
अभीष्टं प्राप्नुयाद्यक्तो रमां राज्यं यथापिवः।।

।।इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णं।।