पंचमी तिथि के स्वामी नाग हैं, श्रावण कृष्ण / शुक्ल पंचमी को यह स्तोत्र अवश्य पढ़ें। कई प्रदेशों में श्रावण की कृष्ण पक्ष की पंचमी और क ई प्रदेशों में श्रावण की शुक्ल पक्ष की पंचमी " नाग-पंचंमी" मनाई जाती है।
~ध्यानंम~
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ।
नागेन्द्रवाहिनीं देवीं सर्वविद्याविशारदाम् ॥
श्रीनारायण उवाच -
नमः सिद्धिस्वरुपायै वरदायै नमो नमः ।
नमः कश्यपकन्यायै शंकरायै नमो नमः ॥ १॥
बालानां रक्षणकर्त्र्यै नागदेव्यै नमो नमः ।
नम आस्तीकमात्रे ते जरत्कार्व्यै नमो नमः ॥ २॥
तपस्विन्यै च योगिन्यै नागस्वस्रे नमो नमः ।
साध्व्यै तपस्यारुपायै शम्भुशिष्ये च ते नमः ॥ ३॥
॥ फलश्रुतिः ॥
इति ते कथितं लक्ष्मि मनसाया स्तवं महत् ।
यः पठति नित्यमिदं श्रावयेद्वापि भक्तितः ॥
न तस्य सर्पभीतिर्वै विषोऽप्यमृतं भवति ।
वंशजानां नागभयं नास्ति श्रवणमात्रतः ॥
॥ इति श्रीमनसास्तोत्रम् ॥
~~~``b~~~```~~~```d~~~```~~~```v``~~~
No comments:
Post a Comment