स्नान आदि से पवित्र होकर, भगवान नारायण के किसी भी स्वरूप का यथाशक्ति पूजन करके नित्य ३ पाठ अवश्य करें।।
अथापरमहं वक्ष्येऽमृतसञ्जीवनं स्तवम्।
यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते।।१।।
असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः।
शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते।।२।।
शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः।
प्रेतवेतालयक्षोत्था बाधा नश्यन्ति चाखिलाः।।३।।
दुरितानि समस्तानि नानाजन्मोद्भवानि च।
संसर्गजविकाराणि विलीयन्तेऽस्य पाठतः।।४।।
सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये।
आयुःप्रवृद्धये चैतत्स्तोत्रं परममद्भुतम्।।५।।
बालग्रहाभिभूतानां बालानां सुखदायकम्।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम्।।६।।
बालानां जीवनायैतत्स्तोत्रं दिव्यं सुधोपमम्।
मृतवत्सत्त्वहरणं चिरजीवित्वकारकम्।।७।।
महारोगाभिभूतानां भयव्याकुलितात्मनाम्।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम्।।८।।
अल्पमृत्युश्चापमृत्युः पाठादस्य प्रणश्यति।
जलाग्निविषशस्त्रारिनखिशृङ्गिभयं तथा।।९।।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम्।
महारोगहरं नॄणामल्पमृत्युहरं परम्।।१०।।
बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः।
भवन्ति सुखिनः पाठादस्य लोके चिरायुषः।।११।।
अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः।
तस्मात्सर्वप्रयत्नेन पाठमस्य समाचरेत्।।१२।।
अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा।
तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः।।१३।।
कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः।
सायं प्रातश्च विधिवत्स्तोत्रमेतत्पठेत्सुधीः।।१४।।
सर्पिषा हविषा वाऽपि संयावेनाथ भक्तितः।
दशांशमानतो होमङ्कुर्यात्सर्वार्थसिद्धये।।१५।।
* अथ स्तोत्रम् *
नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय।
नमो नमो विश्वसृजेश्वराय नमो नमो मुक्तिवरप्रदाय।।१६।।
नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय।
नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय।।१७।।
नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुजप्रकर्त्रे।
नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे।।१८।।
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते।
विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय।।१९।।
यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत्।
आयुर्वेदमरीरचन्द्ररतरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय।।२०।।
स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम्।
चक्रे दैन्यगणान्सुधाविरहितान्सम्मोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय।।२१।।
चाक्षुषोदधिसप्लावभूवेदप झषाकृते।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२२।।
पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२३।।
याच्ञाछलबलित्रासमुक्तनिर्जर वामन।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२४।।
धरोद्धारहिरण्याक्षघातक्रोडाकृते प्रभो।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२५।।
भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२६।।
क्षत्रियारण्यसञ्छेदकुठारकर रैणुक।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२७।।
रक्षोराजप्रतापाब्धिशोषणाशुग राघव।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२८।।
भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।२९।।
वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक्।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।३०।।
कलिवर्णाश्रमास्पष्टधर्मर्द्ध्यै कल्किरूपभाक्।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय।।३१।।
असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः।
छिन्धि तानाशु चक्रेण चिरं जीवय जीवय।।३२।।
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान्।
भिन्धि भिन्धि गदाघातैश्चिरं जीवय जीवय।।३३।।
अहं न जाने किमपि त्वदन्यत्समाश्रये नाथ पदाम्बुजं ते।
कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम्।।३४।।
त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः।
विद्याधनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव।।३५।।
न मेऽपराधं प्रविलोकय प्रभोऽपराधसिन्धोश्च दयानिधिस्त्वम्।
तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान्।।३६।।
अहह विस्मर नाथ च मां सदा करुणया निजया परिपूरितः।
भुवि भवान् यदि मे नहि रक्षकः कथमहो मम जीवनमत्र वै।।३७।।
दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम्।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम्।।३८।।
न यत्र धर्माचरणं च दानं व्रतं न यागो न च विष्णुचर्चा।
न पितृगोविप्रवरामरार्चा स्वल्पायुषस्तत्र जना भवन्ति।।३९।।
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय
नाशय क्ष्रौं आमारोग्यं कुरु कुरु ह्रीं दीर्घमायुर्देहि देहि स्वाहा।
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम्।।४०।।
शतं पञ्चाशतं शक्त्याथवा पञ्चाधिविंशतिम्।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये।।४१।।
भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके।
सन्धारयेद्गर्भरक्षा बालरक्षा च जायते।।४२।।
सर्वे रोगा विनश्यन्ति सर्वा बाधा प्रशाम्यति।
कुदृष्टिजं भयं नश्येत्तथा प्रेतादिजं भयम्।।४३।।
मया कथितमेतत्तेऽमृतसञ्जीवनं परम्।
अल्पमृत्युहरं स्तोत्रं मृतवत्सत्त्वनाशनम्।।४४।।
।। इति श्रीसुदर्शनसंहितान्तर्गतं अमृतसञ्जीवनस्तोत्रं सम्पूर्णम् ।।
साभार - पुजारी मनीष भारद्वाज
No comments:
Post a Comment